वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡जि꣢ष्ठं त्वा꣣ य꣡ज꣢माना हुवेम꣣ ज्ये꣢ष्ठ꣣म꣡ङ्गि꣢रसां विप्र꣣ म꣡न्म꣢भि꣣र्वि꣡प्रे꣢भिः शुक्र꣣ म꣡न्म꣢भिः । प꣡रि꣢ज्मानमिव꣣ द्या꣡ꣳ होता꣢꣯रं चर्षणी꣣ना꣢म् । शो꣣चि꣡ष्के꣢शं꣣ वृ꣡ष꣢णं꣣ य꣢मि꣣मा꣢꣫ विशः꣣ प्रा꣡व꣢न्तु जू꣣त꣢ये꣣ वि꣡शः꣢ ॥१८१४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः । परिज्मानमिव द्याꣳ होतारं चर्षणीनाम् । शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥१८१४॥

मन्त्र उच्चारण
पद पाठ

य꣡जि꣢꣯ष्ठम् । त्वा꣣ । य꣡ज꣢꣯मानाः । हु꣣वेम । ज्ये꣡ष्ठ꣢꣯म् । अ꣡ङ्गि꣢꣯रसाम् । वि꣣प्र । वि । प्र । म꣡न्म꣢꣯भिः । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । शुक्र । म꣡न्म꣢꣯भिः । प꣡रि꣢꣯ज्मानम् । प꣡रि꣢꣯ । ज्मा꣣नम् । इव । द्या꣢म् । हो꣡ता꣢꣯रम् । च꣣र्षणीना꣢म् । शो꣣चि꣡ष्के꣢शम् । शो꣣चिः꣢ । के꣣शम् । वृ꣡ष꣢꣯णम् । य꣢म् । इ꣣माः꣢ । वि꣡शः꣢꣯ । प्र । अ꣣वन्तु । जूत꣡ये꣢ । वि꣡शः꣢꣯ ॥१८१४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1814 | (कौथोम) 9 » 1 » 18 » 2 | (रानायाणीय) 20 » 5 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

हे (विप्र) विशेष रूप से पूर्णता करनेवाले जगदीश ! (यजमानाः) उपासना-यज्ञ के याज्ञिक हम (यजिष्ठम्) सबसे बड़े यज्ञकर्ता, (अङ्गिरसां जयेष्ठम्) तपस्वियों में श्रेष्ठ (त्वा) आपको (मन्मभिः) वेदमन्त्रों से (हुवेम) पुकारें। हे (शुक्र) तेजस्वी और पवित्र परमात्मन् ! (मन्मभिः) मननशील (विप्रेभिः) विद्वान् उपासकों के साथ मिलकर आपको पुकारें। (द्याम्) आकाश को (परिज्मानम् इव) मानो सूर्य द्वारा मापनेवाले और (चर्षणीनाम्) मनुष्यों के (होतारम्) सुखप्रदाता, (शोचिष्केशम्) तेजों से प्रकाशमान, (वृषणम्) वृष्टिकर्ता (यम्) जिन आपकी (इमाः) ये (विशः) प्रजाएँ उपासना करती हैं, उन आपको (विशः) वे प्रजाएँ, (जूतये) बल, वेग आदि की प्राप्ति के लिए (प्रावन्तु) प्राप्त कर लें ॥२॥ यहाँ ‘परिज्मानमिव द्याम्’ में उत्प्रेक्षालङ्कार, ‘मन्मभिः’ की आवृत्ति में यमक और ‘विप्र, विप्रे’ में छेकानुप्रास है ॥२॥

भावार्थभाषाः -

विप्रजनों के साथ मिलकर सामूहिक उपासना से सबको उस परमात्मा की पूजा करनी चाहिए, जो सृष्टियज्ञ का सञ्चालक, ज्येष्ठ, श्रेष्ठ, सर्वाधिक तेजस्वी और मनोरथों को पूर्ण करनेवाला है तथा जो सूर्य को पूर्व से पश्चिम तक यात्रा कराता हुआ उसके द्वारा मानो आकाश को मापता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (विप्र) विशेषेण पूरयितः जगदीश ! (यजमानाः) उपासनायज्ञस्य यष्टारः वयम् (यजिष्ठम्) यष्तृतमम् (अङ्गिरसां ज्येष्ठम्) तपस्विनां श्रेष्ठम् (त्वा) त्वाम् (मन्मभिः) वेदमन्त्रैः (हुवेम) आह्वयेम। हे (शुक्र) तेजस्विन्, पवित्र परमात्मन् ! (मन्मभिः) मननशीलैः (विप्रेभिः) उपासकैः विद्वद्भिः सह त्वां हुवेम। (द्याम्) आकाशम् (परिज्मानम् इव) सूर्यद्वारा परिमिमानमिव, (चर्षणीनाम्) मनुष्याणाम् (होतारम्) सुखप्रदातारम्, (शोचिष्केशम्) शोचिर्भिः प्रकाशमानम्, (वृषणम्) वृष्टिकरम् (यम्) यं त्वाम् (इमाः) एताः (विशः) प्रजाः उपासते, तं त्वाम् (विशः) ताः प्रजाः (जूतये) बलवेगादिप्राप्तये। [‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’। अ० ३।३।९७ इत्यनेनोदात्तः क्तिन् प्रत्ययो धातोर्दीर्घत्वं च निपात्यते।] (प्रावन्तु) प्राप्नुवन्तु ॥२॥२ अत्र ‘परिज्मानमिव द्याम्’ इत्युत्प्रेक्षालङ्कारः, ‘मन्मभिः’ इत्यस्यावृत्तौ यमकम्, ‘विप्र विप्रे’ इत्यत्र छेकानुप्रासः ॥२॥

भावार्थभाषाः -

विप्रजनैः सह मिलित्वा सामूहिकोपासनया सर्वैः स परमात्मा पूजनीयो यः सृष्टियज्ञस्य सञ्चालको ज्येष्ठः श्रेष्ठस्तेजस्वितमः कामवर्षकश्च वर्तते यश्च सूर्यं पूर्वतः पश्चिमान्तं यात्रां कारयन् तेनाकाशं परिमातीव ॥२॥